शासि वसि घसि इत्येतेषां च इण्कोः उत्तरस्य यकारस्य मूर्धन्यो भवति। अन्वशिषत्, अन्वशिषताम्, अन्वशिषन्। शिष्टः। शिष्टवान्। वसि उषितः। उषितवान्। उषित्वा। घसि जक्षतुः। जक्षुः। घसिभसोर्हलि च
६।४।१०० इति उपधालोपः। अक्षन् पितरो ऽमीमदन्त पितरः। अनादेशार्थं वचनम्। घसिर् यद्यप्यादेशः, सकारस्त्वादेशो न भवति। इण्दोः इत्येव, शास्ति। वसति। जघास।
इण्कुभ्यां परस्यैषां सस्य षः स्यात्। घस्य चर्त्वम्॥ जक्षतुः। जक्षुः। जघसिथ। जक्षथुः। जक्ष। जघास, जघस। जक्षिव। जक्षिम। आद। आदतुः। आदुः॥
"अन्वशिषत्()" ति। "शासु अनुसिष्टौ" (धा।पा।१०७५), लुङ्(), "सर्त्तिशास्त्यरत्तिभ्यश्च"
३।१।५६ इति च्लेरङ्(), "शास इदङ्हलोः"
६।४।३४ इतीत्त्वम्()। "अन्वशिषताम्()" इति। तसस्ताम्()। "शिष्टः" इति। ष्टुत्वम्(), पूर्ववदित्त्वम्()। "उषितः" इति। "वस निवासे" (धा।पा।१००५), "वसतिक्षुधोः"
७।२।५२ इतीट्(), वच्यादिसूत्रेच
६।१।१५ सम्प्रसारणम्()। "जक्षतुः जक्षुः" इति। "घस्लु अदे (धा।पा।७१५), यश्चादेशो घसिः--तयोद्र्वयोरपरि ग्रहणम्()।
ननु चादेशस्य लाक्षणिकत्वाद्ग्रहणमयुक्तम्()? नैष दोषः; अनित्या हि लक्षणप्रतिपदोक्तपरिभाषः। अनित्यत्वं चास्याः "यावत्पुरानिपातयोर्लट्()"
३।३।४ इत्यत निपातग्रहणेन ज्ञापितम्()। "भुवश्च महाव्याह्मतेः"
८।२।७१ इत्यत्र महाव्याह्मतिग्रहणेन च ज्ञापितम्()।
अपि चात्र घसिवसोरेकतरस्य लब्दक्षरत्वात्? पूर्वनिपाते कत्र्तव्ये शासेः पूर्वनिपातं कुर्वता शास्त्रनिरपेक्षता सूच्यते--किञ्चिच्छास्त्रमत्र नापेक्षितवयमित्यमुमर्थं दर्शयितुम्()। तेन लक्षणप्रतिपदोक्तपरिभाषा (व्या।प।३) नाश्रीयत इति युक्तमादेशस्यापि ग्रहणमिति। अदेर्लिटि कृते "लिट()न्यतरस्याम्()"
२।४।४० इति धस्लादेशः, "गमहन"
६।४।९८ इत्यादिनोपध#आलोपः, "द्विर्वचनेऽचि"
१।१।५८ इति स्थानिवद्भावाद् द्विर्वचनम्(), "कुहोश्चुः"
७।४।६२ इति चुत्वम्()--झकारः, तस्यापि जश्त्वम--जकारः, घकारस्य चत्र्वम्()--ककारः।
तस्य चाश्रयत्वात्? सिद्धं भवतीति वेदितव्यम्()। "अक्षन्()" इति। लुङ्(), "बहुलं छन्दसि"
२।४।३९ इति घस्लादेशः, झेरन्तादेशः, संयोगान्तलोपः
८।२।२३, "मन्त्रे घसह्वर"
२।४।८० इत्यादिना च्लेर्लुक्(), "घसिभसोर्हलि च"
६।४।१०० इत्युपधालोपः, चत्र्वम्()--ककारः।
"अनादेशार्थं वचनम्()" इत्युक्ते यो देशयेत्()--युक्तं शासिवसोरनादेशार्थं वचनम्(), अनादेशार्थं तु घसिं प्रत्ययुक्तम्(),
आदेशसकरत्वादिति? सं प्रत्याह--"धसिः" इत्यादि। घकारादिवर्णसमुदायो हि घसिरादेशः, सकारस्तु तस्यादयवः, नादेश इत्यादेशघसिमपि प्रत्यनादेशार्थं वचनम्()॥
- शासिवसि। "सहेः साडः सः" इत्यतः स इति षष्ठ()न्तमनुवर्तते। "इण्को"रिति, "अपदान्तस्य मूर्धन्यः" इति चाधिकृतम्। तदाह--इण्कवर्गाभ्यामिति। भारद्वाजनियमात्थलि वेडिति मत्वा आह-- उवसिथ उवस्थेति। "न शसददे" ति निषेधात् "थलि च सेटी"ति न भवति। ऊषथुः ऊष, उवास--उवस ऊषिव ऊषिम। क्रादिनियमादिट्। वस् स्य ति इति स्थिते आह-- सः स्याद्र्धधातुके इति। अनेन सकारस्य तकार इति भावः। वसतु। अवसत्। वसेत्। उष्यादिति। आशीर्लिङि यासुटः कित्त्वाद्वस्य संप्रसारणे "सासिवसी"ति षत्वमिति भावः। अवात्सीदिति। सिचि हलन्तलक्षणवृद्दौ सस्य तकारः। अवात्तामिति। अवस् स् तामिति स्थिते वृद्धौ "झलो झली" ति सलोपे प्रत्ययलक्षममाश्रित्य सकाराद्याद्र्धदातुकपरत्वाद्धातुसकारस्य "सः सि" इति तकारः। वस्तुतस्तु अवात्स्व अवास्म। अवत्स्यत्। वेञ्धातुरनिट्। ञित्त्वादुभयपदी। तन्तुसन्तानः-- पटनिर्माणार्थं तन्तूनां तिर्यक्प्रसारमविशेषः। वयति वयते इति। शपि अयादेशः। वेञो वयिः। शेषपूरणेन सूत्रं व्याचष्टे--वा स्याल्लिटीति। "लिच्यन्यतरस्या"मित्यतोऽन्यतरस्यामित्यनुवृत्तेरिति भावः। उच्चारणार्थ इति। इकारस्य इत्संज्ञकत्वे तु नुम् स्यादिति भावः। उवायेति। णल#इ वयादेशे यजादित्वादकिति लिटि परे "लिट()भ्यासस्ये"ति वकारस्य संप्रासरणे उपधावृद्धिरिति भावः। अत्र यकारस्य तु न संप्रसारणं, "लिटि वयो यः"इति तन्निषेधस्यानुपदमेव वक्ष्यमामत्वादिति भावः। यद्यपि णलि वयादेशाऽभावेऽपि द्वित्वे अभ्यासस्य संप्रसारमे "अचो ञ्णिती"ति वृद्धौ आयादेशे उवायेति सिध्यति, तथापि ऊयतुरित्याद्यर्थं वयादेशस्य आवश्यकत्वादिहापि वयादेशो न्याय्यत्वादुपन्यस्तः। वे--अतुस् इति स्थिते वयादेशे कृते--